संदेश

जून, 2016 की पोस्ट दिखाई जा रही हैं

भारतमहिमा

चित्र
!!!---: भारतमहिमा :---!!! ======================== गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारतभूमिभागे । स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात् ।। अहो अमीषां किमकारि शोभनं प्रसन्न एषां स्विदुत स्वयं हरिः । यैर्जन्म लब्धं नृषु भारताजिरे मुकुन्दसेवौपयिकं स्पृहा हि नः ।। इयं निर्मला वत्सला मातृभूमिः प्रसिद्धं सदा भारतं वर्षमेतत् । विभिन्ना जना धर्मजातिप्रभेदे- रिहैकत्वभावं वहन्तो वसन्ति ।। विशालास्मदीया धरा भारतीया सदा सेविता सागरै रम्यरूपा । वने पर्वतनिर्झरैर्भव्यभूति- र्वहन्तीभिरेषा शुभा चापगाभिः ।। जगद्गौरवं भारतं शोभनीयं सदास्माभिरेतत्तथा पूजनीयम् । भवेद् देशभक्तिः समेषां जनानां परादर्शरूपा सदावर्जनीया ।। ============================== www.vaidiksanskrit.com =============================== हमारे सहयोगी पृष्ठः-- (1.) वैदिक साहित्य हिन्दी में www.facebook.com/vaidiksanskrit (2.) वैदिक साहित्य संस्कृत में www.facebook.com/vedisanskrit (3.) लौकिक साहित्य हिन्दी में www....

कृषिगीतम्

चित्र
!!!---: कृषिगीतम् :---!!! ========================== तदासीत् या विकृतवेषा कुरूपा निर्जला चेयम् । इदानीं नः श्रमेणाप्ता धरा परिधानयुक्तेयम् ।। समेषां चिन्तयास्माकं कथञ्चित् फलितम् । बहूनां कर्षकाणां नः श्रमैः सस्यं समाकलितम् ।। परं ते मध्यमाः सर्वे समेषामन्नराशीनाम् । क्रयं कृत्वाल्पमूल्येन पुनर्नो निर्धनान् कुर्युः ।। धरास्माकं भवेत्कामं न चान्नं नो हितायेदम् । वयं गायाम कृषिगीतं तथापीत्थं सुखायेदम् ।। ऋतूणां कष्टमाघातैः वयं सर्वे समभ्यस्ताः । शरीरे नास्ति परिधानं कृषिः परिधानयुक्तेयम् ।। सुखं सन्तोषवाचा यत् प्रशस्यं कल्पयामस्तत् । समेषामन्नभाजां सा कृषिः सुखलब्धये भूयात् ।। ============================== www.vaidiksanskrit.com =============================== हमारे सहयोगी पृष्ठः-- (1.) वैदिक साहित्य हिन्दी में www.facebook.com/vaidiksanskrit (2.) वैदिक साहित्य संस्कृत में www.facebook.com/vedisanskrit (3.) लौकिक साहित्य हिन्दी में www.facebook.com/laukiksanskrit (4.) संस्कृत निबन्ध www.facebook.com/girva...

प्रियं भारतम्

चित्र
!!!---: प्रियं भारतम् :---!!! ======================== राजतां मे मनसि नः प्रियं भारतम् । द्योतितं तत्स्वरूपं लसतु शाश्वतम् । मेखला विन्ध्यागोदावरी-जाह्नवी मस्तकं हिमगिरिः सागरो नुपूरम् ।। राजतां मे......... शिविदधीचिप्रभृतिभिस्तथा सेवितम् चन्द्रशेखर-भगतसिंह-बिस्मिल प्रियम् । गान्धिना यत् प्रदत्तं स्वकं जीवनम् प्राणसर्वस्वदानैः कृतार्थीकृतम् ।। राजतां मे......... स्वप्नदर्शि-प्रजातन्त्र-सम्पोषकम् विश्वनेतृप्रियं नेहरूपण्डितम् । शास्त्रि राजेन्द्र-अब्दुलहमीदादिकम् पुत्रजातं च लब्ध्वातिदर्पान्वितम् ।। राजतां मे......... सैन्यदाक्ष्यञ्च विज्ञानप्रौद्योगिकम् विस्तृतां कर्त्तुमग्रेसरं यत् सदा । राष्ट्रचिन्तापरं श्रमपरं चानिशं हर्षितं वीक्ष्य सर्वत्र मोदान्वितम् । राजतां मे......... ============================== www.vaidiksanskrit.com =============================== हमारे सहयोगी पृष्ठः-- (1.) वैदिक साहित्य हिन्दी में www.facebook.com/vaidiksanskrit (2.) वैदिक साहित्य संस्कृत में w...