भारतीय-मनीषा

!!!---: भारतीय-मनीषा :---!!! ====================== शिक्षकः---- "वद केशव । किमिदं क्रीडनकम् ?" नहि नहि नहि एतत् संगणकम् । श्यामे ! त्वं वद । किं विदधाति ? प्रश्नानाम् उत्तरं ददाति । अंगुलिमिह गु़टके न्यस्यामि । क्रमशोSहं प्रश्नान् पृच्छामि । कोSसौ कोSसौ ? येन विरचिता अष्टाध्यायी सूत्रैः ग्रथिता । वाचयते लिखितं हरिशरणः "मुनिः पाणिनिः वैयाकरणः" । नाट्ये शिल्पे काSद्भुतरचना । "भरतनाट्य--- शास्त्रम् तत्प्रथना" ।। भैषज्ये कौ लोकविश्रुतौ । मुनिवर्यौ तौ चरकसुश्रुतौ ।। किं नामैतद् उपग्रहयानम् ? "आर्यभट्टम् विश्वेSर्जितमानम्" । आर्यभट्टः कः "ज्योतिर्विज्ञः ग्रहगतिकथनपटुः गणितज्ञः" गणिते या रचना विख्याता लीलावत्याः को निर्माता ? "आचार्योSसौ भास्करनामा तस्यैषा रचना अभिरामा...